|
|
 |
 |
|
|
१८ स्वर्गारोहणपर्व.jpg)
॥ श्रीः ॥
18.1. अध्यायः 001
Mahabharata - SwargarohaNa Parva - Chapter Topics
स्वर्गं गतेन युधिष्ठिरेण तत्र महासमुच्छ्रयेण शोभमानदुर्योधनदर्शनम्॥ 1 ॥ तथा तदुस्कर्षासहिष्णुतया तदीयदोषो द्धाटनेन तेन सह स्वन स्वर्गवासानभिरोचननिवेदनपूर्वकं नारदंप्रति स्वस्य भ्रात्रादिदिदृक्षानिवेदनम्॥ 2 ॥
Mahabharata - SwargarohaNa Parva - Chapter Text
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 18-1-1(98428)
जनमेजय उवाच। 18-1-1x(8094)
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः।
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे॥ 18-1-1(98429)
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः।
महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा॥ 18-1-2(98430)
वैशम्पायन उवाच। 18-1-3x(8095)
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः।
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु॥ 18-1-3(98431)
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः।
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने॥ 18-1-4(98432)
भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम्।
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः॥ 18-1-5(98433)
ततो युधिष्ठिरो राजा दुर्योधनममर्षितः।
सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने॥ 18-1-6(98434)
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै।
सहितः कामये लोकाँल्लब्धेनादीर्घदर्शिना॥ 18-1-7(98435)
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा।
हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने॥ 18-1-8(98436)
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी।
पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ॥ 18-1-9(98437)
अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्।
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम॥ 18-1-10(98438)
नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव।
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति॥ 18-1-11(98439)
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन।
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम॥ 18-1-12(98440)
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह।
सद्भिश्च राजप्रवरैते इमे स्वर्गवासिनः। 18-1-13(98441)
वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम्।
यूयं सर्वे सुरसमा येन युद्धेन बाधिताः॥ 18-1-14(98442)
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्।
भये महति योऽभीतो बभूव पृथिवीपतिः॥ 18-1-15(98443)
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्।
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि॥ 18-1-16(98444)
ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः।
संग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि॥ 18-1-17(98445)
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै।
स्वर्गोऽयं नेह वैराणि भन्ति मनुजाधिप॥ 18-1-18(98446)
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः।
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह॥ 18-1-19(98447)
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः।
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः॥ 18-1-20(98448)
यत्कृते पृथिवी नष्टा सहसा सनरद्विपा।
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः॥ 18-1-21(98449)
ये ते वीरी महात्मानो भ्रातरो मे महाव्रताः।
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः।
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्॥ 18-1-22(98450)
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम्।
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्॥ 18-1-23(98451)
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः।
क्वनु ते पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद॥ 18-1-24(98452)
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्।
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः।
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद॥ ॥ 18-1-25(98453)
इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - SwargarohaNa Parva - Chapter Footnotes
7-1-1 त्रीणि विष्टपानि भुवनानि फलोत्कर्षवशाद्यत्रान्तर्भवन्ति तादृशं स्वर्गं प्राप्य॥ 7-1-6 तत इति। स्वर्गेऽप्यमर्षो दुस्त्यज इति संस्काराणां प्राबल्यमुक्तम्॥ 7-1-9 हताः अस्माभिः संधिरार्षः॥ 7-1-11 विरुद्धं वैरादिकं नश्यति अन्तर्धीयते॥ 7-1-20 सुहृद इत्यदन्तः शब्दः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|